मध्यकालीन संस्कृत साहित्य
Inspiring shloka of sanskrit
धनुः पौष्पं,मौर्वी मधुकरमयी, चञ्चलदृशां
दृशां कोणो
बाणः,
सुहृदपि जडात्मा हिमकरः।
स्वयं
चैकोऽनङ्गः सकलभुवनं व्याकुलयति
क्रियासिद्धि
स्सत्वे भवति महतां नोपकरणे।।
घटो
जन्मस्थानं मृगपरिजनो भूर्जवसनः
वने वासः
कन्दादिकमशनमेवंविधगुणः।
अगस्त्यः
पाधोधिं यदकृतकराम्भोजकुहरे
क्रियासिद्धिस्सत्वे
भवति महतां नोपकरणे।।
अहमेव
गुरुस्सुदारुणानामिति हालाहल!तात!मास्म दृप्यः।
ननु सन्ति
भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्मनानाम्।।
मणि
श्शाणोल्लीढस्समरविजयी हेतिदलितः
मदक्षीणो
नागश्शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्र
स्सुरतमृदिता बालवनिता
तनिम्ना
शोभन्ते गलितविभवाश्चार्धिषु नृपाः।।
आशा नाम नदी
मनोरथजला,
तृष्णातरङ्गाकुला,
रागग्राहवती,वितर्कविहगा, धैर्यद्रुमध्वंसिनी।
मोहावर्तसुदुस्तरातिगहना,
प्रोत्तुङ्गचिन्तातटी,
तस्याः
पारगताः विशुद्धमनसो नन्दन्ति योगीश्वराः।।
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्तु
नितरां कुपितो विधाता।
न त्वस्य
दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ
समर्थः।।
शक्यो
वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो
निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः।
व्याधिर्भेषजसङ्ग्रहैश्च
विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति
शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।
क्षान्तिश्चेत्
कवचेन किं, किमरिभिः क्रोधोऽस्ति चेद्देहिनां,
ज्ञातिश्चेदनलेन
किं,
यदि सुहृद्दिव्यौषधैः किं फलम्।
किं
सर्पैर्यदि दुर्जनाः, किमु धनैर्विद्याऽनवद्या यदि,
व्रीडा चेत्
किमु भूषणैस्सुकविता यद्यस्ति राज्येन किम्।।
जाड्यं धियो
हरति,
सिञ्चति वाचि सत्यं,
मानोन्नतिं
दिशति,
पापमपाकरोति।
चेतः
प्रसादयति, दिक्षु तनोति कीर्तिं
सत्सङ्गतिः
कथय किं न करोति पुंसाम्।।
आयुः कर्म च
वित्तं च विद्या निधनमेव च।
पञ्चैतान्यपि
सृज्यन्ते गर्भस्थस्यैव देहिनः।।
क्षुक्षामोऽपि
जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशा-
मापन्नोऽपि
विपन्नदीधितिरपि प्राणेषु नश्वत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं
तृणमत्ति मानमहतामग्रेसरः केसरी।।
वेदानुद्धरते
जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते
बलिं छलयते क्षत्रक्षयं कुर्वते।
पौलस्त्यं
दलते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्
मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः।।
जातिर्यातु
रसातलं गुणगणस्तत्राऽप्यथो गच्छतात्
शीलं शैलतटात्
पतत्वभिजनस्सन्दह्यतां वह्निना।
शौर्ये वेरिणि
वज्र माशु निपतत्वर्धोऽस्तु नः केवलं
येनैकेन विना
गुणास्तृणलवप्रायास्समस्ता इमे।।
लाङ्गूलचालनमधश्चरणावघातं
भूमौ निपत्य वदनोदरदर्शनं च।
श्वा पिण्डस्य
कुरुते,
गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते।।
ये नाम
केचिदिह नः प्रथयन्त्यवज्ञां
जानन्तु ते
किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते
मम कोऽपि समानधर्मा
कालो ह्ययं
निरवधिर्विपुला च पृथ्वी।।
केयूरा न
विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न
विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका
समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु
भूषणानि सततं वाग्भूषणं भूषणम्।।
दौर्मन्त्र्यान्नृपतिर्विनश्यति
यतिस्सङ्गात् सुतो लालनात्
विप्रोऽनध्ययनात्
कुलं कुतनयाच्छीलं खलोपासनात्।
ह्रीर्मद्यादनवेक्षनादपि
कृषिः स्नेहः प्रवासाश्रयात्
मैत्री
चाऽप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम्।।
मुखे गरलं
मुञ्चन् मूले वसति चेत् फणी।
फलसन्दोहगुरुणा
तरुणा किं प्रयोजनम्।।
चातकस्त्रिचतुरान्
पयःकणान् याचते जलधरं पिपासया।
सोऽपि पूरयति
विश्वमम्भसा हन्त हन्त महतामुदारता।।
न द्वेष्मि
निन्दन्तमपि द्विषन्तं निन्दन् स तुष्टिं नितरां लभेत।
दानेन
सन्तोषयितुं न शक्तः परानपीत्थं परितोषयेयम्।।
यद्धात्रा
निजफालपट्टलिखितं स्तोकं महद्वा धनं
तत्
प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नाऽतोऽधिकम्।
तद्धीरो भव
वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य
पयोनिधावपि घटो गृह्णाति तुल्यं जलम्।।
शशी दिवसधूसरो,
गलितयौवना कामिनी,
सरो
विगतवारिजं, मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः,
सततदुर्गतिस्सज्जनो,
नृपाङ्गणगतः
खलो मनसि सप्त शल्यानि मे।।
अन्नदाता
भयत्राता यश्च विद्यां प्रयच्छति।
जनिता चोपनेता
च पञ्चैते पितरः स्मृताः।।
राजपत्नी
गुरोः पत्नी भ्रातृपत्नी तथैव च।
पत्नीमाता
स्वमाता च पञ्चैताः मातरः स्मृताः।।
आरम्भगुर्वी
क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात्।
दिनस्य
पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम्।।
सन्तप्तायसि
संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया
तदेव नलिनीपत्रस्थितं दृश्यते।
अन्तस्सागरशुक्तिध्यपतितं
तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमजुषा
मेवंविधाः वृत्तयः।।
आलस्यं हि
मनुष्याणां शरीरस्थो महान् रिपुः।
नाऽस्त्युद्यमसमो
बन्धुः कुर्वाणो नाऽवसीदति।।
मनस्येकं
वचस्येकं कर्मण्येकं महात्मनाम्।
मनस्यन्यन्यत्
वचस्यन्यत् कर्मण्यन्यत् दुरात्मनाम्।।
उत्तमं
स्वार्जितं वित्तं मध्यमं पितुरार्जितम्।
अधमं
भ्रातृवित्तं च स्त्रीवित्तमधमाधमम्।।
एकः स्वादु न
भुञ्जीत एकश्चार्धान् न चिन्तयेत्।
एको न
गच्छेदध्वानं नैकः सुप्तेषु जागृयात्।।
दुर्जनः
प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति
जिह्वाग्रे हृदि हालाहलं विषम्।।
शोको नाशयते
धैर्यं शोको नाशयते श्रुतम्।
शोको नाशयते
सर्वं नास्ति शोकसमो रिपुः।।
सहसा विदधीत न
क्रियां अविवेकः परमापदां पदम्।
वृणते हि
विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः।।
क्षारं जलं
वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति।
सन्तस्तथा
दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुम्द्गिरन्ति।।
रत्नैर्महाब्धेस्तुतुषुर्न
देवाः न भेजिरे भीमविषेण भीतिम्।
सुधां विना न
प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः।।
सम्पूर्णकुम्भो
न करोति शब्दं अर्धो घटो घोषमुपैति नूनम्।
विद्वान्
कुलीनो न करोति गर्वं अल्पो जनो जल्पति साट्टहासम्।।
अङ्गुल्या कः
कवाटं प्रहरति?कुटिले! माधवः, किं वसन्तः?
नो चक्री,
किं कुलालः?न हि धरणिधरः, किं द्विजिह्वा फणीन्द्रः?
नाऽहं
घोराहिमर्दी,किमुत खगपतिः,नो हरिः किं कपीन्द्रः?
इत्येवं
गोपकन्याप्रतिवचनजितः पातु नश्चक्रपाणिः।।
नाऽमुत्र हि
सहायार्थं पिता माता च तिष्ठतः।
न पुत्रदाराः
न ज्ञातिः धर्मः तिष्ठति केवलः।।
पौलस्त्यः
कथमन्यदारहरणे दोषं न विज्ञातवान्
रामेणाऽपि कथं
न हेमहरिणस्याऽसम्भवो लक्षितः।
अक्षैश्चाऽपि
युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं
प्रत्यासन्नविपत्तिमूढमनसां
प्रायो मतिः क्षीयते।।
श्रोत्रं
श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः
करुणापराणां परोपकारेण न चन्दनेन।।
पद्माकरं
दिनकरो विकचं करोति
चन्द्रो
विकासयति कैरवचक्रवालम्।
नाऽभ्यर्थितो
जलधरोऽपि जलं ददाति
सन्तः स्वयं
परहिते विहिताभियोगाः।।
तृष्णां
छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं
ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम्।
मान्यान् मानय
विद्विषोऽप्यनुनयं प्रख्यापय प्रश्रयं
कीर्तिं पालय
दुःखिते कुरु दया मेतत् सतां चेष्टितम्।।
अङ्कूरकारणमपि
तुषहीनश्चेत् तण्डुलो न रोहति हि।
अतिचतुरोऽपि
सहायाद्विना न कार्याणि निर्वहति लोके।।
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च।
अहशच
रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति
नरस्य वृत्तम्।।
उद्यमेन हि
सिद्ध्यन्ति कार्याणि न मनोरथैः।
न हि सिंहस्य
सुप्तस्य प्रविशन्ति मुखे मृगाः।।
आपन्नोऽपि
सुजनस्सुजनो
हीनस्तु विपदि
कीदृशः स्यात्।
भिन्नोऽपि
कनककलशः कनकं
भिन्नस्तु
मृद्घटः कीदृशः स्यात्।।
प्रियबन्धुता
सुसम्पत् सुन्दरता चाभिजात्यता।
आगच्छन्ति हि
कमलया साकं गच्छन्ति चैनया सार्धम्।।
भिद्यन्ते सति
कोपे ग्राववदधमास्सुवर्णवन्मध्यमाः।
अम्बुनि
बाणक्षतवत् सद्यश्शाम्यति महात्मनां क्रोधः।।
ददाति
प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते
भोजयते चैव षड्विधं मित्रलक्षणम्।।
कदर्थितस्याऽपि
हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम्।
अधोमुखस्याऽपि
कृतस्य वह्नेर्नाधश्शिखा याति कदाचिदेव।।
छिन्नोऽपि
रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः।
इति
विमृशन्तस्सन्तः संतप्यन्ते न विप्लुताः लोके।।
शिक्षा क्षयं
गच्छति कालपर्ययात् सुबद्धमूलाः निपतन्ति पादपाः।
जलं
जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति।।
विद्या
विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय।
कुलं पवित्रं
जननी कृतार्था वसुन्धरा पुण्यवती च तेन।
अपारसंवित्सुखसागरेऽस्मिन्
लीनं परे ब्रह्मणि यस्य चेतः।।
ऐश्वर्यस्य
विभूषणं सुजनता, शौर्यस्य वाक्संयमो,
ज्ञानस्योपशमः,श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः,
क्षमा प्रभवितु,र्धर्मस्य निर्व्याजता,
सर्वेषामपि
सर्वकारणमिदं शीलं परं भूषणम्।।
नेता यस्य
बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्ग
मनुग्रहः खलु हरे रैरावणो वारणः।
इत्याश्चर्यबलान्वितोऽपि
बलभिद्भग्नः परैस्सङ्गरे
तद्व्यक्तं
ननु दैवमेव शरणं धिग्धिग्वृधा पौरुषम्।।
आनन्दमन्धरपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य।
पादाम्बुजं
भवतु नो विजयाय मञ्जुमञ्जीरसिञ्जितमनोहर मम्बिकायाः।।
कान्ताकटाक्षविशिखा
न लुनन्ति यस्य
चित्तं न
निर्दहति कोपकृशानुतापः।
तर्षन्ति
भूरिविषयाश्च न लोभपाशैः
लोकत्रयं जयति
कृत्स्नमिमं स धीरः।।
यदा
किञ्चिज्ञोऽहं गज इव मदान्धः समभवं
तदा
सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा
किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा
मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।
व्योमैकान्तविहारिणोऽपि
विहगास्संप्राप्नुवन्त्यापदं
बध्यन्ते
निपुणैरगाधसलिलान्मत्स्यास्समुद्रादपि।
दुर्णीतं
किमिहाऽस्ति? किं सुचरितं? कः स्थानलाभे गुणः?
कालस्सर्वजनान्
प्रसारितकरो गृह्णाति दूरादपि।।
धर्मे तत्परता,
मुखे मधुरता,दाने समुत्साहिता,
मित्रेऽवञ्चकता,गुरौ विनयिता,चित्तेऽति गम्भीरता।
आचारे शुचिता,
गुणे रसिकता,शास्त्रेऽतिविज्ञानिता,
रूपे सुन्दरता,
हरौ भजनिता सत्स्वेव संदृश्यते।।
पापान्निवारयति
योजयते हिताय
गुह्यं
निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न
जहाति काले
सन्मित्रलक्षणमिदं
प्रवदन्ति सन्तः।।
न सीदन्नपि
धर्मेण मनोऽधर्मे निवेशयेत्।
अधार्मिकाणां
पापाना-माशु पश्यन् विपर्ययम्।।
मनसि वचसि
काये पुण्यपीयूषपूर्णाः
त्रिभुवन
मुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून्
पर्वतीकृत्य नित्यं
निजहृदि
विकसन्तः सन्ति सन्तः कियन्तः।।
स हि
गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी
ज्योतिषां मध्यचारी।
विधुरपि
विधियोगात् ग्रस्यते राहुणाऽसौ
लिखितमपि
ललाटे प्रोज्झितुं कस्समर्थः।
परिक्षीणः
कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात्
सम्पूर्णः कलयति धरित्रीं तृणसमाम्।
तश्चानेकान्ता
गुरुलघुतयाऽर्थेषु धनिना-
मवस्था
वस्तूनि प्रथयति च संकोचयति च।।
बोधितोऽपि बहु
सूक्तविस्तरैः किं खलो जगति सज्जनो भवेत्।
स्नापितोऽपि
बहुशो नदीजलैः गर्दभः किमु हयो भवेत् क्वचित्।।