A part of sanskritbhasi blog

Inspiring shloka of sanskrit


राज्ञि धर्मिणि धर्मिष्ठाः पापे पापरताः सदा।
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः।।

शरणं करवाणि शर्मदं ते चरणं वाणि!चराचरोपजीव्यम्।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब! कृतार्थसार्थवाहम्।।

आशासु राशीभवदङ्गवल्ली भासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैः निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरीं त्वाम्।।

उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां मैत्री स्यात् दर्शनात् सताम्।।

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम्।।

सुलभाः पुरुषाः लोके सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।।
मनीषिणः सन्ति न ते हितैषिणः
हितैषिणः सन्ति न ते मनीषिणः।
सुहृच्च विद्वानपि दुर्लभो जनो
यधौषधं स्वादु हितं च दुर्लभम्।।

अनन्तपारं बहु वेदशास्त्रं स्वल्पं तथाऽऽयु र्बहवश्च विघ्नाः।
सारं ततो ग्राह्य मपास्य फल्गु हंसो यथा क्षीर मिवाम्बुमध्यात्।।

मूलं भुजङ्गैः शिखरं प्लवङ्गैः शाखा विहङ्गैः कुसुमानि भृङ्गैः।
आसेव्यते दुष्टजनैः समसतैः न चन्दनं मुञ्चति शीतलत्वम्।।

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य, साधोर्विपरीत मेतत् ज्ञानाय दानाय च रक्षणाय।।

पुराण मित्येव न साधु सर्वं न चाऽपि काव्यं नव मित्यवद्यम्।
सन्तः परीक्ष्याऽन्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः।।

हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते।
निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः।।

अंभोधिः स्थलतां, स्थलं जलधितां, धूलीलवः शैलतां
मेरुः मृत्कणतां, तृणं कुलिशतां, वज्रं तृणं प्राप्यताम्।
वह्निः शीतलतां, हिमं दहनता मायाति यस्येच्छया
लीलादुर्ललिताद्भुतव्यसनिने देवाय तस्मै नमः।।

द्वारं द्वार मटन् भिक्षुः शिक्षते न तु याचते।
अदत्त्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव।।


अहो खलभुजङ्गस्य विचित्रो ऽयं वधक्रमः।
अन्यस्य कर्णं दशति अन्यस्तु विषमूर्छति

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते मम कोऽपि समानधर्मा कालो ह्ययं निरवधिः विपुला च पृथ्वी।।

अयि मुरलि मुकुन्द स्मेर वक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः।।

क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति।
सन्तः तथा दुर्जनदुर्वचांसि श्रुत्वा च सूक्तानि समुद्गिरन्ति।।

अनन्तपारं बहुवेदशास्त्रं स्वल्पं तथाऽऽयुर्बहवश्च विघ्नाः।
सारं ततो ग्राह्य मपास्य फल्गु हंसो यथा क्षीरमिवाम्बुमध्यात्।।


भिद्यन्ते सति कोपे ग्रावव-दधमाः सुवर्णवन्मध्यमाः।
अम्बुनि बाणक्षतवत् सद्यः शाम्यति महात्मनां क्रोधः।।

चेतोहराः युवतयः सुहृदोऽनुकूलाः
सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः।
गर्जन्ति दन्तिनिवहा स्तरला स्तुरङ्गाः
सम्मीलने नयनयोर्न हि किञ्चिदस्ति।।

सानन्दं सदनंसुताश्च सुधियः,कान्ता मनोहारिणी,
सन्मित्रं,सुधनंस्वयोषिति रतिः,सेवारताःसेवकाः,
आतिथ्यं,सुरपूजनं,प्रतिदिनं मिष्टान्नपानं गृहे,
साधोः सङ्गउपासना च सततं धन्यो गृहस्थाश्रमः।।

अर्धं दानववैरिणा गिरिजयाऽप्यर्धं शिवस्याऽऽहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं

सर्वज्ञत्वमधीश्वरत्व मगमत् त्वां मां च भिक्षाटनम्।।



दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम्।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता

ये चैवं पुरुषाः कलासु कुशलाः तेष्वेव लोकस्थितिः।।

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं

सर्वं वस्तु भयावहं भुवि नृणां वैराग्यमेवाभयम्।।

व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि।
दुर्णीतं किमिहास्ति? किं सुचरितं? कः स्थानलाभे गुणः?
कालः सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि।।

पौलस्त्यः कथ मन्य दार हरणे दोषं न विज्ञातवान्
रामेणाऽपि कथं न हेम हरिण स्यासम्भवो लक्षितः।
अक्षै श्चाऽपि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं
प्रत्यासन्न विपत्ति मूढ मनसां प्रायो मतिः क्षीयते।।

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
धाराधरो वर्षति नात्महेतोः परोपकाराय सतां विभूतयः।।

श्वा यदि दंशति मनुजान् न ते जना स्तं प्रति दंशन्ति।
यद्याक्रोशति नीचो न सज्जन स्तं वदति किञ्चित्।।

विरलाः जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम्।
विरलाः परकार्यरताः परदुःखेनाऽपि दुःखिताः विरलाः।।

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि रसविशेषः।
तद्वत् सज्जनमैत्री विपरीतानां तु विपरीता।।

क्षमा खड्गः करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति।।

रथ स्यैकं चक्रं भुजगयमिता स्सप्ततुरगाः
निरालम्बो मार्गश्चरणविकलस्सारथि रपि।
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे।।

चलन्ति तारा रविचन्द्रमण्डलं
चलेच्च मेरुर्विचलेच्च मन्दरम्।
कदाऽपि काले पृथिवी चलेच्च वै
चलेन्न धर्मः सुजनस्य वाक्यम्।।

शिव शिरसि शिरांसि यानि रेजुः
शिव शिव तानि लुठन्ति गृध्रपातैः।
अयि खलु विषमः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः।।

दैवाधीनं जगत् सर्वं
मन्त्राधीनं तु दैवतम्।
तन्मन्त्रं ब्राह्मणाधीनं
ब्राह्मणो मम देवता।।

चेतोहराः युवतयः सुहृदोऽनुकूलाः
सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः।
गर्जन्ति दन्तिनिवहास्तरला स्तुरङ्गाः
सम्मीलने नयनयोर्न हि किञ्चिदस्ति।।

चित्ताह्लादि व्यसनविमुखं शोकतापापनोदि
यज्ञोत्पादिश्रवणसुखदं न्यायमार्गानुयायि।
तथ्यं पथ्यं व्यपगतमदं सार्थकं मुक्तवादं
यो निर्दोषं रचयति वचस्तं बुधाः सन्त माहुः।।

इन्दुः क्व क्व च सागरः क्व च रविः पद्माकरः क्व स्थितः
क्वाऽभ्रं वा क्व मयूरपङ्क्ति रमला क्वाऽलिः क्व वा मालती।
मन्दाध्वक्रमराजहंसनिचयः क्वाऽसौ क्व वा मानसं
यो यस्याऽभिमतः स तस्य निकटे दूरेऽपि वा वल्लभः।।


लब्ध्वा सुदुर्लभमिदं बहु सम्भवान्ते
मानुष्य मर्धदमनित्य मपीह धीरः।
तूर्णं यतेत नुपते दनुमृत्यु यावत्
निश्श्रेयसाय विषयः खलु सर्वतः स्यात्।।

नन्दन्ति मन्दाः श्रियमप्यनित्यां
परं विषीदन्ति विपद्गृहीताः।
विवेक दृष्ट्या चरतां नराणां
श्रियो न किञ्चित् विपदो न किञ्चित्।।


यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चन माश्रयन्ति।।

यः प्रीणयेत् सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत् कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं य-
देतत् त्रयं जगति पुण्यकृतो लभन्ते।।

पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः।।

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा।
शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः।।

अजानन् दाहात्म्यं पतति शलभो दीपदहने
स मीनोऽप्यज्ञानाद्वडिशमश्नाति पिशितम्।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्
न मुञ्चामो कामानहह गहनो मोहमहिमा।।

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभाराः नारिकेलाः नराणाम्।
सलिलममृतकल्पं दद्यु राजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति।।

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

विश्वामित्राहिपशुषुकर्दमेषु जलेषु च।
अन्धे तमसि वार्धक्ये दण्डं दशगुणं भवेत्।।

चन्द्रः क्षयी प्रक्रृतिवक्रतनुः कलङ्की
दोषाकरः स्फुरति मित्र- विपत्तिकाले।
मूर्ध्ना तथाऽपि सततं ध्रियते हरेण
नैवाश्रितेषु महतां गुणदोषचिन्ता।।

आबद्धकृत्रिमसटाजटिलांसभित्तिः
आरोपितो मृगपतेः पदवीं यदि श्वा।
मत्तेभकुम्भतटपाटनलंपटस्य
नादं करिष्यति कथं हरिणाधिपस्य।।

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।।

मय्येव जीर्णतां यातु यत् त्वयोपकृतं हरे।
जनः प्रत्युपकारार्थी विपत्ति मभिकाङ्क्षति।।

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।


हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कविः
वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः।
एना मर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं
ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति।।

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं,
स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधोजनः सेवितः।।

भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना
इयं यास्यत्युच्चैर्विपदमधुना वानरचमूः।
स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः
लघिष्ठेमं षष्ठाक्षरविलोपात् पठ पुनः।।
"षष्ठाक्षरपर" इति वक्तव्यम्।

गच्छन् पिपीलिको यातियोजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति।।


वार्ता च कौतुककरी विमला च विद्या
लोकोत्तरः परिमलश्च कुरङ्गनाभेः।
तैलस्य बिन्दुरिव वारिणि दुर्निवार-
मेतत् त्रयं प्रसरति स्वयमेव लोके।।

न च विद्यासमो बन्धुः न मुक्तेः परमा गतिः।
न वैराग्यात् परं भाग्यं नास्ति त्यागसमं सुखम्।।

नैवाकृतिः फलति नैव कुलं न शीलं
विद्याऽपि नैव न च यत्नकृताऽपि सेवा।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः।।

वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि।।

भीमं वनं भवति तस्य पुरं प्रधानं
सर्वे जनाः सुजनता मुपयान्ति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य।।

कदर्धितस्याऽपि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम्।
अधोमुखस्याऽपि कृतस्य वह्नेः नाधः शिखाः यान्ति कदाचिदेव।।

स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौन मपण्डितानाम्।।

प्रसह्य मणि मुद्धरेन्मकर वक्त्र दंष्ट्रान्तरात्
समुद्रमपि सन्तरेत् प्रचलदूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।।

कुशो यथा दुर्ग्रहीतो हस्तमेवानुकृन्त्वति।
श्रामण्यं दुष्परामृष्टं निरयायोपकर्षति।।

धनुः पौष्पं,मौर्वी मधुकरमयी, चञ्चलदृशां

दृशां कोणो बाणः, सुहृदपि जडात्मा हिमकरः।

स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति

क्रियासिद्धि स्सत्वे भवति महतां नोपकरणे।।

 

घटो जन्मस्थानं मृगपरिजनो भूर्जवसनः

वने वासः कन्दादिकमशनमेवंविधगुणः।

अगस्त्यः पाधोधिं यदकृतकराम्भोजकुहरे

क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे।।

 

अहमेव गुरुस्सुदारुणानामिति हालाहल!तात!मास्म दृप्यः।

ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्मनानाम्।।

 

मणि श्शाणोल्लीढस्समरविजयी हेतिदलितः

मदक्षीणो नागश्शरदि सरिदाश्यानपुलिना।

कलाशेषश्चन्द्र स्सुरतमृदिता बालवनिता

तनिम्ना शोभन्ते गलितविभवाश्चार्धिषु नृपाः।।

 

आशा नाम नदी मनोरथजला, तृष्णातरङ्गाकुला,

रागग्राहवती,वितर्कविहगा, धैर्यद्रुमध्वंसिनी।

मोहावर्तसुदुस्तरातिगहना, प्रोत्तुङ्गचिन्तातटी,

तस्याः पारगताः विशुद्धमनसो नन्दन्ति योगीश्वराः।।

 

अम्भोजिनीवनविहारविलासमेव

हंसस्य हन्तु नितरां कुपितो विधाता।

न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः।।

 

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

 

क्षान्तिश्चेत् कवचेन किं, किमरिभिः क्रोधोऽस्ति चेद्देहिनां,

ज्ञातिश्चेदनलेन किं, यदि सुहृद्दिव्यौषधैः किं फलम्।

किं सर्पैर्यदि दुर्जनाः, किमु धनैर्विद्याऽनवद्या यदि,

व्रीडा चेत् किमु भूषणैस्सुकविता यद्यस्ति राज्येन किम्।।

 

जाड्यं धियो हरति, सिञ्चति वाचि सत्यं,

मानोन्नतिं दिशति, पापमपाकरोति।

चेतः प्रसादयति, दिक्षु तनोति कीर्तिं

सत्सङ्गतिः कथय किं न करोति पुंसाम्।।

 

आयुः कर्म च वित्तं च विद्या निधनमेव च।

पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः।।

 

क्षुक्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशा-

मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्वत्स्वपि।

मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः

किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी।।

 

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते।

पौलस्त्यं दलते हलं कलयते कारुण्यमातन्वते

म्लेच्छान् मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः।।

 

जातिर्यातु रसातलं गुणगणस्तत्राऽप्यथो गच्छतात्

शीलं शैलतटात् पतत्वभिजनस्सन्दह्यतां वह्निना।

शौर्ये वेरिणि वज्र माशु निपतत्वर्धोऽस्तु नः केवलं

येनैकेन विना गुणास्तृणलवप्रायास्समस्ता इमे।।

 

लाङ्गूलचालनमधश्चरणावघातं भूमौ निपत्य वदनोदरदर्शनं च।

श्वा पिण्डस्य कुरुते, गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते।।

 

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां

जानन्तु ते किमपि तान्  प्रति नैष यत्नः।

उत्पत्स्यते मम कोऽपि समानधर्मा

कालो ह्ययं निरवधिर्विपुला च पृथ्वी।।

 

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।

 

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिस्सङ्गात् सुतो लालनात्

विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात्।

ह्रीर्मद्यादनवेक्षनादपि कृषिः स्नेहः प्रवासाश्रयात्

मैत्री चाऽप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम्।।

 

मुखे गरलं मुञ्चन् मूले वसति चेत् फणी।

फलसन्दोहगुरुणा तरुणा किं प्रयोजनम्।।

 

चातकस्त्रिचतुरान् पयःकणान् याचते जलधरं पिपासया।

सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता।।

 

न द्वेष्मि निन्दन्तमपि द्विषन्तं निन्दन् स तुष्टिं नितरां लभेत।

दानेन सन्तोषयितुं न शक्तः परानपीत्थं परितोषयेयम्।।

 

यद्धात्रा निजफालपट्टलिखितं स्तोकं महद्वा धनं

तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नाऽतोऽधिकम्।

तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः

कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्।।

 

शशी दिवसधूसरो, गलितयौवना कामिनी,

सरो विगतवारिजं, मुखमनक्षरं स्वाकृतेः।

प्रभुर्धनपरायणः, सततदुर्गतिस्सज्जनो,

नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे।।

 

अन्नदाता भयत्राता यश्च विद्यां प्रयच्छति।

जनिता चोपनेता च पञ्चैते पितरः स्मृताः।।

 

राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च।

पत्नीमाता स्वमाता च पञ्चैताः मातरः स्मृताः।।

 

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात्।

दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम्।।

 

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते

मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते।

अन्तस्सागरशुक्तिध्यपतितं तन्मौक्तिकं जायते

प्रायेणाधममध्यमोत्तमजुषा मेवंविधाः वृत्तयः।।

 

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

नाऽस्त्युद्यमसमो बन्धुः कुर्वाणो नाऽवसीदति।।

 

मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्।

मनस्यन्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनाम्।।

 

उत्तमं स्वार्जितं वित्तं मध्यमं पितुरार्जितम्।

अधमं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम्।।

 

एकः स्वादु न भुञ्जीत एकश्चार्धान् न चिन्तयेत्।

एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्।।

 

दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।

मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्।।

 

शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।

शोको नाशयते सर्वं नास्ति शोकसमो रिपुः।।

 

सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः।।

 

क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति।

सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुम्द्गिरन्ति।।

 

रत्नैर्महाब्धेस्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम्।

सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः।।

 

सम्पूर्णकुम्भो न करोति शब्दं अर्धो घटो घोषमुपैति नूनम्।

विद्वान् कुलीनो न करोति गर्वं अल्पो जनो जल्पति साट्टहासम्।।

 

अङ्गुल्या कः कवाटं प्रहरति?कुटिले! माधवः, किं वसन्तः?

नो चक्री, किं कुलालः?न हि धरणिधरः, किं द्विजिह्वा फणीन्द्रः?

नाऽहं घोराहिमर्दी,किमुत खगपतिः,नो हरिः किं कपीन्द्रः?

इत्येवं गोपकन्याप्रतिवचनजितः पातु नश्चक्रपाणिः।।

 

नाऽमुत्र हि सहायार्थं पिता माता च तिष्ठतः।

न पुत्रदाराः न ज्ञातिः धर्मः तिष्ठति केवलः।।

 

पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान्

रामेणाऽपि कथं न हेमहरिणस्याऽसम्भवो लक्षितः।

अक्षैश्चाऽपि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं

प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते।।

 

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।

विभाति कायः करुणापराणां परोपकारेण न चन्दनेन।।

 

पद्माकरं दिनकरो विकचं करोति

चन्द्रो विकासयति कैरवचक्रवालम्।

नाऽभ्यर्थितो जलधरोऽपि जलं ददाति

सन्तः स्वयं परहिते विहिताभियोगाः।।

 

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः

सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम्।

मान्यान् मानय विद्विषोऽप्यनुनयं प्रख्यापय प्रश्रयं

कीर्तिं पालय दुःखिते कुरु दया मेतत् सतां चेष्टितम्।।

 

अङ्कूरकारणमपि तुषहीनश्चेत् तण्डुलो न रोहति हि।

अतिचतुरोऽपि सहायाद्विना न कार्याणि निर्वहति लोके।।

 

आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च।

अहशच रात्रिश्च उभे च सन्ध्ये  धर्मश्च जानाति नरस्य  वृत्तम्।।

 

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।

न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः।।

 

आपन्नोऽपि सुजनस्सुजनो

हीनस्तु विपदि कीदृशः स्यात्।

भिन्नोऽपि कनककलशः कनकं

भिन्नस्तु मृद्घटः कीदृशः स्यात्।।

 

प्रियबन्धुता सुसम्पत् सुन्दरता चाभिजात्यता।

आगच्छन्ति हि कमलया साकं गच्छन्ति चैनया सार्धम्।।

 

भिद्यन्ते सति कोपे ग्राववदधमास्सुवर्णवन्मध्यमाः।

अम्बुनि बाणक्षतवत् सद्यश्शाम्यति महात्मनां क्रोधः।।

 

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।

भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम्।।

 

कदर्थितस्याऽपि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम्।

अधोमुखस्याऽपि कृतस्य वह्नेर्नाधश्शिखा याति कदाचिदेव।।

 

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः।

इति विमृशन्तस्सन्तः संतप्यन्ते न विप्लुताः लोके।।

 

शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूलाः निपतन्ति पादपाः।

जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति।।

 

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।

खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय।

 

कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन।

अपारसंवित्सुखसागरेऽस्मिन् लीनं परे ब्रह्मणि यस्य चेतः।।

 

ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य वाक्संयमो,

ज्ञानस्योपशमः,श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।

अक्रोधस्तपसः, क्षमा प्रभवितु,र्धर्मस्य निर्व्याजता,

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।।

 

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्ग मनुग्रहः खलु हरे रैरावणो वारणः।

इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैस्सङ्गरे

तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृधा पौरुषम्।।

 

आनन्दमन्धरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य।

पादाम्बुजं भवतु नो विजयाय मञ्जुमञ्जीरसिञ्जितमनोहर मम्बिकायाः।।

 

कान्ताकटाक्षविशिखा न लुनन्ति यस्य

चित्तं न निर्दहति कोपकृशानुतापः।

तर्षन्ति भूरिविषयाश्च न लोभपाशैः

लोकत्रयं जयति कृत्स्नमिमं स धीरः।।

 

यदा किञ्चिज्ञोऽहं गज इव मदान्धः समभवं

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।

यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

 

व्योमैकान्तविहारिणोऽपि विहगास्संप्राप्नुवन्त्यापदं

बध्यन्ते निपुणैरगाधसलिलान्मत्स्यास्समुद्रादपि।

दुर्णीतं किमिहाऽस्ति? किं सुचरितं? कः स्थानलाभे गुणः?

कालस्सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि।।

 

धर्मे तत्परता, मुखे मधुरता,दाने समुत्साहिता,

मित्रेऽवञ्चकता,गुरौ विनयिता,चित्तेऽति गम्भीरता।

आचारे शुचिता, गुणे रसिकता,शास्त्रेऽतिविज्ञानिता,

रूपे सुन्दरता, हरौ भजनिता सत्स्वेव संदृश्यते।।

 

पापान्निवारयति योजयते हिताय

गुह्यं निगूहति गुणान् प्रकटीकरोति।

आपद्गतं च न जहाति काले

सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

 

न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत्।

अधार्मिकाणां पापाना-माशु पश्यन् विपर्ययम्।।

 

मनसि वचसि काये पुण्यपीयूषपूर्णाः

त्रिभुवन मुपकारश्रेणिभिः प्रीणयन्तः।

परगुणपरमाणून् पर्वतीकृत्य नित्यं

निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।।

 

स हि गगनविहारी कल्मषध्वंसकारी

दशशतकरधारी ज्योतिषां मध्यचारी।

विधुरपि विधियोगात् ग्रस्यते राहुणाऽसौ

लिखितमपि ललाटे प्रोज्झितुं कस्समर्थः।

 

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये

स पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम्।

तश्चानेकान्ता गुरुलघुतयाऽर्थेषु धनिना-

मवस्था वस्तूनि प्रथयति च संकोचयति च।।

 

बोधितोऽपि बहु सूक्तविस्तरैः किं खलो जगति सज्जनो भवेत्।

स्नापितोऽपि बहुशो नदीजलैः गर्दभः किमु हयो भवेत् क्वचित्।।


Share:

No comments:

Post a Comment

Popular Posts

Powered by Blogger.

Search This Blog

Blog Archive

लेख सूची

Labels

Recent Posts

Unordered List

  • Lorem ipsum dolor sit amet, consectetuer adipiscing elit.
  • Aliquam tincidunt mauris eu risus.
  • Vestibulum auctor dapibus neque.

Label Cloud

Biology (1) Physics (1)

Sample Text

Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam, quis nostrud exercitation test link ullamco laboris nisi ut aliquip ex ea commodo consequat.

Pages

संस्कृतसहायता केन्द्रम्

Need our help to संस्कृतसहायता केन्द्रम्/span> or व्याकरण this blogger template? Contact me with details about the theme customization you need.