खगोलविज्ञानं
वेदस्य नेत्रमुक्तम् महर्षिणा। सृष्टेः व्यवहारस्य निर्धारणं कालेनैव भवति। कालस्य ज्ञानं च ग्रहगति द्वारा निश्चीयते। अत:
प्राचीनकालतः अद्यपर्यन्तं खगोलविज्ञानं
वेदांगस्यावयवत्वेन परिगण्यते। यजुर्वेदेपि आयं गोः पृश्निर क्रमीदसवन्मातारं पुर:
। इति मन्त्रे स्पष्टतया सूर्यं परितः पृथ्वियाः
भ्रमणं सिद्धयति। खगोलविज्ञाने ब्रह्माण्डे स्थितानां विभिन्नपिण्डानां
अध्ययनं क्रियते। प्रागैतिहासिककालादारभ्य अस्माकं पूर्वजाः सूर्यं, चन्द्रं अन्यखगोलीय पिण्डान् दृष्टवन्तः।
राजनैतिकरूपेण
तु श्रीरामस्य अस्तित्वनिर्धारणं नैव सम्भवम् , परन्तु
वाल्मीकिरामायणे यत् खगोलीयं वर्णनं प्रप्यते तदाधारेण सर्वं स्पष्टतया ज्ञातुं
शक्यते।
महर्षि-
वाल्मीकिना रचिते श्लोके नभमंडलस्य
विन्यासं सरलं स्पष्टं च अस्ति। अनेनैव
एतदपि ज्ञायते यत् समकालीने समाजे
खगोलविज्ञानं उन्नततमं आसीत्। अस्योदाहरणं पश्यन्तु विज्ञाः।
श्रीरामस्य जन्म - रामायणस्य बाल-काण्डेः
उनविंशतितमे सर्गस्य , अष्टमे नवमे च
श्लोके स्पष्टरूपेण लिखितमस्ति यत्
श्रीरामस्य जन्म चैत्र मासस्य नवम्यां तिथौ अभवत्। यस्मिन् सूर्यः मेषस्य गृहे , शनिः
तुलायां , बृहस्पतिः कर्के , शुक्रः
शनौ , स्थाने आसीत् ।
No comments:
Post a Comment